Sukta 9.86
ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः । दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः ॥
ज्योति॑र्य॒ज्ञस्य॑ पवते॒ मधु॑ प्रि॒यं पि॒ता दे॒वानां॑ जनि॒ता वि॒भूव॑सुः । दधा॑ति॒ रत्नं॑ स्व॒धयो॑रपी॒च्यं॑ म॒दिन्त॑मो मत्स॒र इ॑न्द्रि॒यो रस॑: ॥
jyótir yajñásya pavate mádhu priyáṃ pitā́ devā́nāṃ janitā́ vibhū́vasuḥ | dádhāti rátnaṃ svadháyor apī́cyaṃ madíntamo matsará indríyo rásaḥ ||
The light of the sacrifice flows—honey-delight, beloved; father and begetter of the gods, rich in wide shining. He places the precious jewel hidden in the two self-laws: most intoxicating, the rapturous, Indra-strengthening essence of taste—delight that empowers the will to conquer darkness.
ज्योतिः॑ । य॒ज्ञस्य॑ । प॒व॒ते॒ । मधु॑ । प्रि॒यम् । पि॒ता । दे॒वाना॑म् । ज॒नि॒ता । वि॒भुऽव॑सुः । दधा॑ति । रत्न॑म् । स्व॒धयोः॑ । अ॒पी॒च्य॑म् । म॒दिन्ऽत॑मः । म॒त्स॒रः । इ॒न्द्रि॒यः । रसः॑ ॥ज्योतिः । यज्ञस्य । पवते । मधु । प्रियम् । पिता । देवानाम् । जनिता । विभुवसुः । दधाति । रत्नम् । स्वधयोः । अपीच्यम् । मदिन्तमः । मत्सरः । इन्द्रियः । रसः ॥jyotiḥ | yajñasya | pavate | madhu | priyam | pitā | devānām | janitā | vibhu-vasuḥ | dadhāti | ratnam | svadhayoḥ | apīcyam | madin-tamaḥ | matsaraḥ | indriyaḥ | rasaḥ