Sukta 9.86
यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानामुप याति निष्कृतम् । सहस्रधारः परि कोशमर्षति वृषा पवित्रमत्येति रोरुवत् ॥
य॒ज्ञस्य॑ के॒तुः प॑वते स्वध्व॒रः सोमो॑ दे॒वाना॒मुप॑ याति निष्कृ॒तम् । स॒हस्र॑धार॒: परि॒ कोश॑मर्षति॒ वृषा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वत् ॥
yajñásya ketúḥ pavate svadhvaráḥ sómo devānām úpa yāti niṣkṛtám | sahásra-dhāraḥ pári kośam arṣati vṛ́ṣā pavítram áty eti rórūvat ||
The sign of the sacrifice flows, the Soma whose path is rightly ordered; he approaches the gods’ open space of manifestation. Thousand-streamed, he rushes around the sheath, the strong one; he passes beyond the filter with a resounding cry—an overflowing force of clarified delight.
य॒ज्ञस्य॑ । के॒तुः । प॒व॒ते॒ । सु॒ऽअ॒ध्व॒रः । सोमः॑ । दे॒वाना॑म् । उप॑ । या॒ति॒ । निः॒ऽकृ॒तम् । स॒हस्र॑ऽधारः॑ । परि॑ । कोश॑म् । अ॒र्ष॒ति॒ । वृषा॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रोरु॑वत् ॥यज्ञस्य । केतुः । पवते । सुअध्वरः । सोमः । देवानाम् । उप । याति । निःकृतम् । सहस्रधारः । परि । कोशम् । अर्षति । वृषा । पवित्रम् । अति । एति । रोरुवत् ॥yajñasya | ketuḥ | pavate | su-adhvaraḥ | somaḥ | devānām | upa | yāti | niḥ-kṛtam | sahasra-dhāraḥ | pari | kośam | arṣati | vṛṣā | pavitram | ati | eti | roruvat