Sukta 9.86
उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः । यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति ॥
उ॒भ॒यत॒: पव॑मानस्य र॒श्मयो॑ ध्रु॒वस्य॑ स॒तः परि॑ यन्ति के॒तव॑: । यदी॑ प॒वित्रे॒ अधि॑ मृ॒ज्यते॒ हरि॒: सत्ता॒ नि योना॑ क॒लशे॑षु सीदति ॥
ubhayatáḥ pávamānasya raśmáyo dhruvásya satáḥ pári yanti ketávaḥ | yadī pavítre ádhi mṛ́jyate háriḥ sattā́ ní yonā kalaśéṣu sīdati ||
On both sides the rays of the self-purifying Soma—steadfast in the Real—move around as luminous signs. When the tawny one is cleansed upon the filter, then, taking his true seat, he settles into the wombs, the cups that receive and hold the clarified delight.
उ॒भ॒यतः॑ । पव॑मानस्य । र॒श्मयः॑ । ध्रु॒वस्य॑ । स॒तः । परि॑ । य॒न्ति॒ । के॒तवः॑ । यदि॑ । प॒वित्रे॑ । अधि॑ । मृ॒ज्यते॑ । हरिः॑ । सत्ता॑ । नि । योना॑ । क॒लशे॑षु । सी॒द॒ति॒ ॥उभयतः । पवमानस्य । रश्मयः । ध्रुवस्य । सतः । परि । यन्ति । केतवः । यदि । पवित्रे । अधि । मृज्यते । हरिः । सत्ता । नि । योना । कलशेषु । सीदति ॥ubhayataḥ | pavamānasya | raśmayaḥ | dhruvasya | sataḥ | pari | yanti | ketavaḥ | yadi | pavitre | adhi | mṛjyate | hariḥ | sattā | ni | yonā | kalaśeṣu | sīdati