Sukta 9.86
विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस्ते सतः परि यन्ति केतवः । व्यानशिः पवसे सोम धर्मभिः पतिर्विश्वस्य भुवनस्य राजसि ॥
विश्वा॒ धामा॑नि विश्वचक्ष॒ ऋभ्व॑सः प्र॒भोस्ते॑ स॒तः परि॑ यन्ति के॒तव॑: । व्या॒न॒शिः प॑वसे सोम॒ धर्म॑भि॒: पति॒र्विश्व॑स्य॒ भुव॑नस्य राजसि ॥
víśvā dhā́māni viśva-cakṣa ṛ́bhvasaḥ pra-bhós te satáḥ pári yanti ketávaḥ | vy-ānaśíḥ pavase soma dhárma-bhiḥ pátir víśvasya bhúvanasya rājasi ||
All the seats of being, O all-seeing one, O mighty, are encompassed by your banners of light, by the radiances of your true existence. You flow, O Soma, distributing yourself by the laws of the Truth; as lord of all becoming you reign over the whole world.
विश्वा॑ । धामा॑नि । वि॒श्व॒ऽच॒क्षः॒ । ऋभ्व॑सः । प्र॒ऽभोः । ते॒ । स॒तः । परि॑ । य॒न्ति॒ । के॒तवः॑ । वि॒ऽआ॒न॒शिः । प॒व॒से॒ । सो॒म॒ । धर्म॑ऽभिः । पतिः॑ । विश्व॑स्य । भुव॑नस्य । रा॒ज॒सि॒ ॥विश्वा । धामानि । विश्वचक्षः । ऋभ्वसः । प्रभोः । ते । सतः । परि । यन्ति । केतवः । विआनशिः । पवसे । सोम । धर्मभिः । पतिः । विश्वस्य । भुवनस्य । राजसि ॥viśvā | dhāmāni | viśva-cakṣaḥ | ṛbhvasaḥ | pra-bhoḥ | te | sataḥ | pari | yanti | ketavaḥ | vi-ānaśiḥ | pavase | soma | dharma-bhiḥ | patiḥ | viśvasya | bhuvanasya | rājasi