Sukta 9.86
प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन्पयसा धरीमणि । प्रान्तॠषयः स्थाविरीरसृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ॥
प्र त॒ आश्वि॑नीः पवमान धी॒जुवो॑ दि॒व्या अ॑सृग्र॒न्पय॑सा॒ धरी॑मणि । प्रान्तॠष॑य॒: स्थावि॑रीरसृक्षत॒ ये त्वा॑ मृ॒जन्त्यृ॑षिषाण वे॒धस॑: ॥
prá ta āśvínīḥ pavamāna dhī-júvo divyā́ asṛ́gran páyasā dhárīmaṇi | prā́ntar ṛ́ṣayaḥ sthā́virīr asṛkṣata yé tvā mṛjánty ṛṣi-sāṇa vedhásaḥ ||
Forth have gone your Aśvinī powers, O purified Soma—divine impulsions driven by vision—bearing the milk of essence in the supportive seat. The sages within have released the firm streams, they who cleanse you, O sage-impeller, craftsmen of the sacred knowledge.
प्र । ते॒ । आश्वि॑नीः । प॒व॒मा॒न॒ । धी॒ऽजुवः॑ । दि॒व्याः । अ॒सृ॒ग्र॒न् । पय॑सा । धरी॑मणि । प्र । अ॒न्तः । ऋष॑यः । स्थावि॑रीः । अ॒सृ॒क्ष॒त॒ । ये । त्वा॒ । मृ॒जन्ति॑ । ऋ॒षि॒ऽसा॒ण॒ । वे॒धसः॑ ॥प्र । ते । आश्विनीः । पवमान । धीजुवः । दिव्याः । असृग्रन् । पयसा । धरीमणि । प्र । अन्तः । ऋषयः । स्थाविरीः । असृक्षत । ये । त्वा । मृजन्ति । ऋषिसाण । वेधसः ॥pra | te | āśvinīḥ | pavamāna | dhī-juvaḥ | divyāḥ | asṛgran | payasā | dharīmaṇi | pra | antaḥ | ṛṣayaḥ | sthāvirīḥ | asṛkṣata | ye | tvā | mṛjanti | ṛṣi-sāṇa | vedhasaḥ