Sukta 9.86
प्र ते धारा अत्यण्वानि मेष्यः पुनानस्य संयतो यन्ति रंहयः । यद्गोभिरिन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि ॥
प्र ते॒ धारा॒ अत्यण्वा॑नि मे॒ष्य॑: पुना॒नस्य॑ सं॒यतो॑ यन्ति॒ रंह॑यः । यद्गोभि॑रिन्दो च॒म्वो॑: सम॒ज्यस॒ आ सु॑वा॒नः सो॑म क॒लशे॑षु सीदसि ॥
prá te dhārā́ áty aṇvā́ni méṣyaḥ punānáasya saṃyató yanti raṃháyaḥ | yád góbhir indo camvóḥ samajyása ā́ suvānáḥ soma kalaśéṣu sīdasi ||
Forward move thy streams; the swift fine currents rush when thou art purified and gathered to the true course. When, O Indu, thou blendest with the rays of Light in the two cups, then, pressed out, O Soma, thou takest thy seat in the vessels of fulfilment.
प्र । ते॒ । धाराः॑ । अति॑ । अण्वा॑नि । मे॒ष्यः॑ । पु॒ना॒नस्य॑ । स॒म्ऽयतः॑ । य॒न्ति॒ । रंह॑यः । यत् । गोऽभिः॑ । इ॒न्दो॒ इति॑ । च॒म्वोः॑ । स॒म्ऽअ॒ज्यसे॑ । आ । सु॒वा॒नः । सो॒म॒ । क॒लशे॑षु । सी॒द॒सि॒ ॥प्र । ते । धाराः । अति । अण्वानि । मेष्यः । पुनानस्य । सम्यतः । यन्ति । रंहयः । यत् । गोभिः । इन्दो इति । चम्वोः । सम्अज्यसे । आ । सुवानः । सोम । कलशेषु । सीदसि ॥pra | te | dhārāḥ | ati | aṇvāni | meṣyaḥ | punānasya | sam-yataḥ | yanti | raṃhayaḥ | yat | go-bhiḥ | indo iti | camvoḥ | sam-ajyase | ā | suvānaḥ | soma | kalaśeṣu | sīdasi