Sukta 9.86
असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर्भुवनान्यर्षति । अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजमृग्मिणो ययुः ॥
अस॑र्जि स्क॒म्भो दि॒व उद्य॑तो॒ मद॒: परि॑ त्रि॒धातु॒र्भुव॑नान्यर्षति । अं॒शुं रि॑हन्ति म॒तय॒: पनि॑प्नतं गि॒रा यदि॑ नि॒र्णिज॑मृ॒ग्मिणो॑ य॒युः ॥
asárji skambhó divá udyató mádaḥ pári tridʰātúr bhúvanāny arṣati | aṃśúṃ rihanti matáyaḥ panípnataṃ girā yádi nirṇíjam ṛgmíṇo yayúḥ ||
Released is the upholding Pillar from the luminous heights: the ecstasy uplifted pours itself around the threefold-founded worlds. The thought-powers lick and refine the bright ray, delicately shaping it; when the singers go forth with the hymn, they clothe it in its shining vesture.
अस॑र्जि । स्क॒म्भः । दि॒वः । उत्ऽय॑तः । मदः॑ । परि॑ । त्रि॒ऽधातुः । भुव॑नानि । अ॒र्ष॒ति॒ । अं॒शुम् । रि॒ह॒न्ति॒ । म॒तयः॑ । पनि॑प्नतम् । गि॒रा । यदि॑ । निः॒ऽनिज॑म् । ऋ॒ग्मिणः॑ । य॒युः ॥असर्जि । स्कम्भः । दिवः । उत्यतः । मदः । परि । त्रिधातुः । भुवनानि । अर्षति । अंशुम् । रिहन्ति । मतयः । पनिप्नतम् । गिरा । यदि । निःनिजम् । ऋग्मिणः । ययुः ॥asarji | skambhaḥ | divaḥ | ut-yataḥ | madaḥ | pari | tri-dhātuḥ | bhuvanāni | arṣati | aṃśum | rihanti | matayaḥ | panipnatam | girā | yadi | niḥ-nijam | ṛgmiṇaḥ | yayuḥ