Sukta 9.86
पवस्व सोम क्रतुविन्न उक्थ्योऽव्यो वारे परि धाव मधु प्रियम् । जहि विश्वान्रक्षस इन्दो अत्रिणो बृहद्वदेम विदथे सुवीराः ॥
पव॑स्व सोम क्रतु॒विन्न॑ उ॒क्थ्योऽव्यो॒ वारे॒ परि॑ धाव॒ मधु॑ प्रि॒यम् । ज॒हि विश्वा॑न्र॒क्षस॑ इन्दो अ॒त्रिणो॑ बृ॒हद्व॑देम वि॒दथे॑ सु॒वीरा॑: ॥
páv asva soma kratuvínna ukthyó ’avyó vā́re pári dhāva mádhu priyám | jahí viśvā́n rákṣasa indo atríṇo bṛhád vadema vidáth e su-vī́rāḥ ||
Purify thyself, O Soma, knower of the will; worthy of the hymn, run around the woollen filter with thy dear sweetness. Slay all devouring darknesses, O Indu, the hostile powers; may we speak the Vast in the assembly, made strong with heroic inner energies.
पव॑स्व । स्म् । क्र॒तु॒ऽवित् । नः॒ । उ॒क्थ्यः॑ । अव्यः॑ । वारे॑ । परि॑ । धा॒व॒ । मधु॑ । प्रि॒यम् । ज॒हि । विश्वा॑न् । र॒क्षसः॑ । इ॒न्दो॒ इति॑ । अ॒त्रिणः॑ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे॑ । सु॒ऽवीराः॑ ॥पवस्व । स्म् । क्रतुवित् । नः । उक्थ्यः । अव्यः । वारे । परि । धाव । मधु । प्रियम् । जहि । विश्वान् । रक्षसः । इन्दो इति । अत्रिणः । बृहत् । वदेम । विदथे । सुवीराः ॥pavasva | soma | kratu-vit | naḥ | ukthyaḥ | avyaḥ | vāre | pari | dhāva | madhu | priyam | jahi | viśvān | rakṣasaḥ | indo iti | atriṇaḥ | bṛhat | vadema | vidathe | su-vīrāḥ