Sukta 9.86
अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः । हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥
अ॒ग्रे॒गो राजाप्य॑स्तविष्यते वि॒मानो॒ अह्नां॒ भुव॑ने॒ष्वर्पि॑तः । हरि॑र्घृ॒तस्नु॑: सु॒दृशी॑को अर्ण॒वो ज्यो॒तीर॑थः पवते रा॒य ओ॒क्य॑: ॥
agrégó rājā ā́pyas taviṣyate vimā́nó ahnā́ṃ bhuvaneṣv árpitaḥ | hárir ghṛtásnuḥ sudṛ́śīko arṇavó jyótīrathaḥ pavate rā́ya okyàḥ ||
The king who goes at the front, the one of the waters, grows in might—measuring out the days, established in the worlds. The bright one, dripping with luminous richness, fair to behold, an ocean in his wideness, rides on a chariot of light as he purifies for the inward home of plenitude.
अ॒ग्रे॒ऽगः । राजा॑ । अप्यः॑ । त॒वि॒ष्य॒ते॒ । वि॒ऽमानः॑ । अह्ना॑म् । भुव॑नेषु । अर्पि॑तः । हरिः॑ । घृ॒तऽस्नुः॑ । सु॒ऽदृशी॑कः । अ॒र्ण॒वः । ज्यो॒तिःऽर॑थः । प॒व॒ते॒ । रा॒ये । ओ॒क्यः॑ ॥अग्रेगः । राजा । अप्यः । तविष्यते । विमानः । अह्नाम् । भुवनेषु । अर्पितः । हरिः । घृतस्नुः । सुदृशीकः । अर्णवः । ज्योतिःरथः । पवते । राये । ओक्यः ॥agre-gaḥ | rājā | āpyaḥ | taviṣyate | vi-mānaḥ | ahnām | bhuvaneṣu | arpitaḥ | hariḥ | ghṛta-snuḥ | su-dṛśīkaḥ | arṇavaḥ | jyotiḥ-rathaḥ | pavate | rāye | okyaḥ