Sukta 9.86
अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते । सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृभ्णते ॥
अ॒ञ्जते॒ व्य॑ञ्जते॒ सम॑ञ्जते॒ क्रतुं॑ रिहन्ति॒ मधु॑ना॒भ्य॑ञ्जते । सिन्धो॑रुच्छ्वा॒से प॒तय॑न्तमु॒क्षणं॑ हिरण्यपा॒वाः प॒शुमा॑सु गृभ्णते ॥
añjáte vyàñjate sám añjate krátum rihanti mádhunā́bhyàñjate | síndhor ucchvā́se patáyantam ukṣáṇaṃ hiraṇyapāvā́ḥ paśúm ā́su gṛbhṇate ||
They anoint, they spread the anointing, they anoint together; they lick his will with honey and bathe him in sweetness. In the river’s up-breath the flying Bull is seized—by the golden-purifiers—as the life-power taken into their hands.
अ॒ञ्जते॑ । वि । अ॒ञ्ज॒ते॒ । सम् । अ॒ञ्ज॒ते॒ । क्रतु॑म् । रि॒ह॒न्ति॒ । मधु॑ना । अ॒भि । अ॒ञ्ज॒ते॒ । सिन्धोः॑ । उत्ऽश्वा॒से । प॒तय॑न्तम् । उ॒क्षण॑म् । हि॒र॒ण्य॒ऽपा॒वाः । प॒शुम् । आ॒सु॒ । गृ॒भ्ण॒ते॒ ॥अञ्जते । वि । अञ्जते । सम् । अञ्जते । क्रतुम् । रिहन्ति । मधुना । अभि । अञ्जते । सिन्धोः । उत्श्वासे । पतयन्तम् । उक्षणम् । हिरण्यपावाः । पशुम् । आसु । गृभ्णते ॥añjate | vi | añjate | sam | añjate | kratum | rihanti | madhunā | abhi | añjate | sindhoḥ | ut-śvāse | patayantam | ukṣaṇam | hiraṇya-pāvāḥ | paśum | āsu | gṛbhṇate