Sukta 9.86
स भन्दना उदियर्ति प्रजावतीर्विश्वायुर्विश्वाः सुभरा अहर्दिवि । ब्रह्म प्रजावद्रयिमश्वपस्त्यं पीत इन्दविन्द्रमस्मभ्यं याचतात् ॥
स भ॒न्दना॒ उदि॑यर्ति प्र॒जाव॑तीर्वि॒श्वायु॒र्विश्वा॑: सु॒भरा॒ अह॑र्दिवि । ब्रह्म॑ प्र॒जाव॑द्र॒यिमश्व॑पस्त्यं पी॒त इ॑न्द॒विन्द्र॑म॒स्मभ्यं॑ याचतात् ॥
sá bhandánā úd iyarti prajā́vatīr viśvā́yur víśvāḥ subhárā́ ahardiví | bráhma prajā́vad rayím aśvápastyaṃ pītá indav índram asmábhyaṃ yācatāt ||
He lifts up the rejoicings—rich in progeny, universal in life, well-bearing through day and night. When Indu is drunk, may he move Indra to grant us the word of power with progeny, and the plenitude that brings swift energies for the journey.
सः । भ॒न्दनाः॑ । उत् । इ॒य॒र्ति॒ । प्र॒जाऽव॑तीः । वि॒श्वऽआ॑युः । विश्वाः॑ । सु॒ऽभराः॑ । अहः॑ऽदिवि । ब्रह्म॑ । प्र॒जाऽव॑त् । र॒यिम् । अश्व॑ऽपस्त्यम् । पी॒तः । इ॒न्दो॒ इति॑ । इन्द्र॑म् । अ॒स्मभ्य॑म् । या॒च॒ता॒त् ॥सः । भन्दनाः । उत् । इयर्ति । प्रजावतीः । विश्वआयुः । विश्वाः । सुभराः । अहःदिवि । ब्रह्म । प्रजावत् । रयिम् । अश्वपस्त्यम् । पीतः । इन्दो इति । इन्द्रम् । अस्मभ्यम् । याचतात् ॥saḥ | bhandanāḥ | ut | iyarti | prajāvatīḥ | viśva-āyuḥ | viśvāḥ | su-bharāḥ | ahaḥ-divi | brahma | prajāvat | rayim | aśva-pastyam | pītaḥ | indo iti | indram | asmabhyam | yācatāt