Sukta 9.86
उन्मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते । राजा पवित्ररथो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहत् ॥
उन्मध्व॑ ऊ॒र्मिर्व॒नना॑ अतिष्ठिपद॒पो वसा॑नो महि॒षो वि गा॑हते । राजा॑ प॒वित्र॑रथो॒ वाज॒मारु॑हत्स॒हस्र॑भृष्टिर्जयति॒ श्रवो॑ बृ॒हत् ॥
únmadhva ūŕmir vanánā atiṣṭhipad apó vásāno mahíṣo ví gāhate | rājā pavítraratho vā́jam ā́ruhat sahásrabhṛṣṭir jayati śrávo bṛhát ||
The wave of sweetness rises and sets the woods trembling; clothed in the waters the mighty one plunges through. The king on the chariot of purification mounts the plenitude of force; with a thousand-edged brilliance he conquers the vast fame of the heights.
उत् । मध्वः॑ । ऊ॒र्मिः । व॒ननाः॑ । अ॒ति॒स्थि॒प॒त् । अ॒पः । वसा॑नः । म॒हि॒षः । वि । गा॒ह॒ते॒ । राजा॑ । प॒वित्र॑ऽरथः । वाज॑म् । आ । अ॒रु॒ह॒त् । स॒हस्र॑ऽभृष्टिः । ज॒य॒ति॒ । श्रवः॑ । बृ॒हत् ॥उत् । मध्वः । ऊर्मिः । वननाः । अतिस्थिपत् । अपः । वसानः । महिषः । वि । गाहते । राजा । पवित्ररथः । वाजम् । आ । अरुहत् । सहस्रभृष्टिः । जयति । श्रवः । बृहत् ॥ut | madhvaḥ | ūrmiḥ | vananāḥ | atisthipat | apaḥ | vasānaḥ | mahiṣaḥ | vi | gāhate | rājā | pavitra-rathaḥ | vājam | ā | aruhat | sahasra-bhṛṣṭiḥ | jayati | śravaḥ | bṛhat