Sukta 9.86
गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः । त्वं सुवीरो असि सोम विश्ववित्तं त्वा विप्रा उप गिरेम आसते ॥
गो॒वित्प॑वस्व वसु॒विद्धि॑रण्य॒विद्रे॑तो॒धा इ॑न्दो॒ भुव॑ने॒ष्वर्पि॑तः । त्वं सु॒वीरो॑ असि सोम विश्व॒वित्तं त्वा॒ विप्रा॒ उप॑ गि॒रेम आ॑सते ॥
govít pavasva vasuvíd híraṇyavíd reto-dhā́ indo bhuvaneṣv árpitaḥ | tvaṃ suvī́ro asi soma viśvavít taṃ tvā viprā́ úpa girém āsate ||
Purify yourself as finder of the Rays of light, finder of plenitude, finder of the golden illumination, O Indu—seed-bearer set within the worlds. You are the giver of heroic force, O Soma, the knower of all; to you the seers sit near with their chant.
गो॒ऽवित् । प॒व॒स्व॒ । व॒सु॒ऽवित् । हि॒र॒ण्य॒ऽवित् । रे॒तः॒ऽधाः । इ॒न्दो॒ इति॑ । भुव॑नेषु । अर्पि॑तः । त्वम् । सु॒ऽवीरः॑ । अ॒सि॒ । सो॒म॒ । वि॒श्व॒ऽवित् । तम् । त्वा॒ । विप्राः॑ । उप॑ । गि॒रा । उ॒मे । आ॒स॒ते॒ ॥गोवित् । पवस्व । वसुवित् । हिरण्यवित् । रेतःधाः । इन्दो इति । भुवनेषु । अर्पितः । त्वम् । सुवीरः । असि । सोम । विश्ववित् । तम् । त्वा । विप्राः । उप । गिरा । उमे । आसते ॥go-vit | pavasva | vasu-vit | hiraṇya-vit | retaḥ-dhāḥ | indo iti | bhuvaneṣu | arpitaḥ | tvam | su-vīraḥ | asi | soma | viśva-vit | tam | tvā | viprāḥ | upa | girā | ume | āsate