Sukta 9.86
अत्यो न हियानो अभि वाजमर्ष स्वर्वित्कोशं दिवो अद्रिमातरम् । वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे ॥
अत्यो॒ न हि॑या॒नो अ॒भि वाज॑मर्ष स्व॒र्वित्कोशं॑ दि॒वो अद्रि॑मातरम् । वृषा॑ प॒वित्रे॒ अधि॒ सानो॑ अ॒व्यये॒ सोम॑: पुना॒न इ॑न्द्रि॒याय॒ धाय॑से ॥
átyo na hiyānó abhí vā́jam arṣa svàr-vit kóśaṃ divó ádri-mātaram | vṛ́ṣā pavítre ádhi sā́no avyáye sómaḥ punāná indríyāya dhā́yase ||
Like a steed driven forward, rush toward the plenitude of force; O finder of the Sun-world, enter the heavenly vessel born of the pressing-stone. A Bull, on the summit of the imperishable filter, Soma is purified for the holding of Indra-power in us.
अत्यः॑ । न । हि॒या॒नः । अ॒भि । वाज॑म् । अ॒र्ष॒ । स्वः॒ऽवित् । कोश॑म् । दि॒वः । अद्रि॑ऽमातरम् । वृषा॑ । प॒वित्रे॑ । अधि॑ । सानौ॑ । अ॒व्यये॑ । सोमः॑ । पु॒ना॒नः । इ॒न्द्रि॒याय॑ । धाय॑से ॥अत्यः । न । हियानः । अभि । वाजम् । अर्ष । स्वःवित् । कोशम् । दिवः । अद्रिमातरम् । वृषा । पवित्रे । अधि । सानौ । अव्यये । सोमः । पुनानः । इन्द्रियाय । धायसे ॥atyaḥ | na | hiyānaḥ | abhi | vājam | arṣa | svaḥ-vit | kośam | divaḥ | adri-mātaram | vṛṣā | pavitre | adhi | sānau | avyaye | somaḥ | punānaḥ | indriyāya | dhāyase