Sukta 9.86
त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि । स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे ॥
त्वं नृ॒चक्षा॑ असि सोम वि॒श्वत॒: पव॑मान वृषभ॒ ता वि धा॑वसि । स न॑: पवस्व॒ वसु॑म॒द्धिर॑ण्यवद्व॒यं स्या॑म॒ भुव॑नेषु जी॒वसे॑ ॥
tvaṃ nṛcákṣā asi soma viśvátāḥ pavamāna vṛṣabha tā́ ví dhāvasi | sá naḥ pavasva vásumad híraṇyavad vayaṃ syāma bhúvaneṣu jīváse ||
You are the seer-power for humanity from every side, O Soma; as the purifying Bull you run through those realms. So purify yourself for us with plenitude and golden light, that we may be in the worlds for the true living.
त्वम् । नृ॒ऽचक्षाः॑ । अ॒सि॒ । सो॒म॒ । वि॒श्वतः॑ । पव॑मान । वृ॒ष॒भ॒ । ता । वि । धा॒व॒सि॒ । सः । नः॒ । प॒व॒स्व॒ । वसु॑ऽमत् । हिर॑ण्यऽवत् । व॒यम् । स्या॒म॒ । भुव॑नेषु । जी॒वसे॑ ॥त्वम् । नृचक्षाः । असि । सोम । विश्वतः । पवमान । वृषभ । ता । वि । धावसि । सः । नः । पवस्व । वसुमत् । हिरण्यवत् । वयम् । स्याम । भुवनेषु । जीवसे ॥tvam | nṛ-cakṣāḥ | asi | soma | viśvataḥ | pavamāna | vṛṣabha | tā | vi | dhāvasi | saḥ | naḥ | pavasva | vasu-mat | hiraṇya-vat | vayam | syāma | bhuvaneṣu | jīvase