Sukta 9.86
ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः । तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ॥
ई॒शा॒न इ॒मा भुव॑नानि॒ वीय॑से युजा॒न इ॑न्दो ह॒रित॑: सुप॒र्ण्य॑: । तास्ते॑ क्षरन्तु॒ मधु॑मद्घृ॒तं पय॒स्तव॑ व्र॒ते सो॑म तिष्ठन्तु कृ॒ष्टय॑: ॥
īśāná imā́ bhúvanāni vī́yase yujāná indo harítaḥ suparṇyàḥ | tā́ste kṣarantu mádhumad ghṛtáṃ páyas táva vraté soma tiṣṭhantu kṛ́ṣṭayaḥ ||
Lord of these worlds, you move forth in your plenitude, yoking the bright, strong-winged energies. Let them pour for you honeyed ghee and milk; and in your law of being, O Soma, may the peoples stand firm.
ई॒शा॒नः । इ॒मा । भुव॑नानि । वि । ई॒य॒से॒ । यु॒जा॒नः । इ॒न्दो॒ इति॑ । ह॒रितः॑ । सु॒ऽप॒र्ण्यः॑ । ताः । ते॒ । क्ष॒र॒न्तु॒ । मधु॑ऽमत् । घृ॒तम् । पयः॑ । तव॑ । व्र॒ते । सो॒म॒ । ति॒ष्ठ॒न्तु॒ । कृ॒ष्टयः॑ ॥ईशानः । इमा । भुवनानि । वि । ईयसे । युजानः । इन्दो इति । हरितः । सुपर्ण्यः । ताः । ते । क्षरन्तु । मधुमत् । घृतम् । पयः । तव । व्रते । सोम । तिष्ठन्तु । कृष्टयः ॥īśānaḥ | imā | bhuvanāni | vi | īyase | yujānaḥ | indo iti | haritaḥ | su-parṇyaḥ | tāḥ | te | kṣarantu | madhu-mat | ghṛtam | payaḥ | tava | vrate | soma | tiṣṭhantu | kṛṣṭayaḥ