Sukta 9.86
सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम् । अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे ॥
स॒प्त स्वसा॑रो अ॒भि मा॒तर॒: शिशुं॒ नवं॑ जज्ञा॒नं जेन्यं॑ विप॒श्चित॑म् । अ॒पां ग॑न्ध॒र्वं दि॒व्यं नृ॒चक्ष॑सं॒ सोमं॒ विश्व॑स्य॒ भुव॑नस्य रा॒जसे॑ ॥
sapta svasā́ro abhí mā́taraḥ śiśúṃ návaṃ jajñānám jényam vipaścítam | apā́ṃ gandharváṃ divyáṃ nṛcákṣasaṃ sómaṃ víśvasya bhúvanasya rājáse ||
The seven sisters, the Mothers, gather around and bring to birth the new Child—victorious, all-discerning. They reveal Soma, the divine Gandharva in the waters, the seer of men, to be the kingly power of the whole world of becoming.
स॒प्त । स्वसा॑रः । अ॒भि । मा॒तरः॑ । शिशु॑म् । नव॑म् । ज॒ज्ञा॒नम् । जेन्य॑म् । वि॒पः॒ऽचित॑म् । अ॒पाम् । ग॒न्ध॒र्वम् । दि॒व्यम् । नृ॒ऽचक्ष॑सम् । सोम॑म् । विश्व॑स्य । भुव॑नस्य । रा॒जसे॑ ॥सप्त । स्वसारः । अभि । मातरः । शिशुम् । नवम् । जज्ञानम् । जेन्यम् । विपःचितम् । अपाम् । गन्धर्वम् । दिव्यम् । नृचक्षसम् । सोमम् । विश्वस्य । भुवनस्य । राजसे ॥sapta | svasāraḥ | abhi | mātaraḥ | śiśum | navam | jajñānam | jenyam | vipaḥ-citam | apām | gandharvam | divyam | nṛ-cakṣasam | somam | viśvasya | bhuvanasya | rājase