Sukta 9.86
इषमूर्जं पवमानाभ्यर्षसि श्येनो न वंसु कलशेषु सीदसि । इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः ॥
इष॒मूर्जं॑ पवमाना॒भ्य॑र्षसि श्ये॒नो न वंसु॑ क॒लशे॑षु सीदसि । इन्द्रा॑य॒ मद्वा॒ मद्यो॒ मद॑: सु॒तो दि॒वो वि॑ष्ट॒म्भ उ॑प॒मो वि॑चक्ष॒णः ॥
íṣam ū́rjaṃ pavamānā́bhy arṣasi śyénō ná vaṃsú kalaśéṣu sīdasi | índrāya mádvā mádyo mádaḥ sutó divó viṣṭámbha upamó vi-cakṣáṇaḥ ||
Bringing food of the soul and its energizing strength, O Pavamāna, thou flowest forth; like a falcon to its nest thou settleth in the bowls. Pressed out, thou art the ecstasy for Indra—intoxicating delight; thou art the support of heaven, supreme and wide-seeing.
इष॑म् । ऊर्ज॑म् । प॒व॒मा॒न॒ । अ॒भि । अ॒र्ष॒सि॒ । श्ये॒नः । न । वंसु॑ । क॒लशे॑षु । सी॒द॒सि॒ । इन्द्रा॑य । मद्वा॑ । मद्यः॑ । मदः॑ । सु॒तः । दि॒वः । वि॒ष्ट॒म्भः । उ॒प॒मः । वि॒ऽच॒क्ष॒णः ॥इषम् । ऊर्जम् । पवमान । अभि । अर्षसि । श्येनः । न । वंसु । कलशेषु । सीदसि । इन्द्राय । मद्वा । मद्यः । मदः । सुतः । दिवः । विष्टम्भः । उपमः । विचक्षणः ॥iṣam | ūrjam | pavamāna | abhi | arṣasi | śyenaḥ | na | vaṃsu | kalaśeṣu | sīdasi | indrāya | madvā | madyaḥ | madaḥ | sutaḥ | divaḥ | viṣṭambhaḥ | upamaḥ | vi-cakṣaṇaḥ