Sukta 9.86
पवमान मह्यर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया । गभस्तिपूतो नृभिरद्रिभिः सुतो महे वाजाय धन्याय धन्वसि ॥
पव॑मान॒ मह्यर्णो॒ वि धा॑वसि॒ सूरो॒ न चि॒त्रो अव्य॑यानि॒ पव्य॑या । गभ॑स्तिपूतो॒ नृभि॒रद्रि॑भिः सु॒तो म॒हे वाजा॑य॒ धन्या॑य धन्वसि ॥
pavamāna máhy árṇo ví dhāvasi sū́ro ná citró avyáyāni pávyayā | gábhasti-pūto nṛ́bhir ádri-bhiḥ sutó mahé vā́jāya dhányāya dhanvasi ||
O Pavamāna, thou runnest forth as a vast flood, like a radiant sun, through the imperishable passages of purification. Purified by the hands, pressed by men with the stones, thou strivest for the great Vāja—plenitude of force—and for the blessed fullness.
पव॑मान । महि॑ । अर्णः॑ । वि । धा॒व॒सि॒ । सूरः॑ । न । चि॒त्रः । अव्य॑यानि । पव्य॑या । गभ॑स्तिऽपूतः । नृऽभिः॑ । अद्रि॑ऽभिः । सु॒तः । म॒हे । वाजा॑य । धन्या॑य । ध॒न्व॒सि॒ ॥पवमान । महि । अर्णः । वि । धावसि । सूरः । न । चित्रः । अव्ययानि । पव्यया । गभस्तिपूतः । नृभिः । अद्रिभिः । सुतः । महे । वाजाय । धन्याय । धन्वसि ॥pavamāna | mahi | arṇaḥ | vi | dhāvasi | sūraḥ | na | citraḥ | avyayāni | pavyayā | gabhasti-pūtaḥ | nṛ-bhiḥ | adri-bhiḥ | sutaḥ | mahe | vājāya | dhanyāya | dhanvasi