Sukta 9.86
राजा सिन्धूनां पवते पतिर्दिव ऋतस्य याति पथिभिः कनिक्रदत् । सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्नुपावसुः ॥
राजा॒ सिन्धू॑नां पवते॒ पति॑र्दि॒व ऋ॒तस्य॑ याति प॒थिभि॒: कनि॑क्रदत् । स॒हस्र॑धार॒: परि॑ षिच्यते॒ हरि॑: पुना॒नो वाचं॑ ज॒नय॒न्नुपा॑वसुः ॥
rājā síndhūnāṃ pavate pátir divá ṛtásya yāti pathí-bhiḥ kánikradat | sahásra-dhāraḥ pári ṣicyate háriḥ punā́nó vā́caṃ janáyann úpāvasuḥ ||
The king of the rivers streams forth, the lord of heaven; he goes by the paths of ṛta, crying out in power. Thousand-streamed, the tawny one is poured all around; being purified, he begets the Word, bringing near the riches of the inner dwelling.
राजा॑ । सिन्धू॑नाम् । प॒व॒ते॒ । पतिः॑ । दि॒वः । ऋ॒तस्य॑ । या॒ति॒ । प॒थिऽभिः॑ । कनि॑क्रदत् । स॒हस्र॑ऽधारः । परि॑ । सि॒च्य॒ते॒ । हरिः॑ । पु॒ना॒नः । वाच॑म् । ज॒नय॑न् । उप॑ऽवसुः ॥राजा । सिन्धूनाम् । पवते । पतिः । दिवः । ऋतस्य । याति । पथिभिः । कनिक्रदत् । सहस्रधारः । परि । सिच्यते । हरिः । पुनानः । वाचम् । जनयन् । उपवसुः ॥rājā | sindhūnām | pavate | patiḥ | divaḥ | ṛtasya | yāti | pathi-bhiḥ | kanikradat | sahasra-dhāraḥ | pari | sicyate | hariḥ | punānaḥ | vācam | janayan | upa-vasuḥ