Sukta 9.86
स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस्त्रिवृतं यथा विदे । नयन्नृतस्य प्रशिषो नवीयसीः पतिर्जनीनामुप याति निष्कृतम् ॥
स सूर्य॑स्य र॒श्मिभि॒: परि॑ व्यत॒ तन्तुं॑ तन्वा॒नस्त्रि॒वृतं॒ यथा॑ वि॒दे । नय॑न्नृ॒तस्य॑ प्र॒शिषो॒ नवी॑यसी॒: पति॒र्जनी॑ना॒मुप॑ याति निष्कृ॒तम् ॥
sá sū́ryasya raśmí-bhiḥ pári vyata tántuṃ tanvānáḥ tri-vṛ́taṃ yáthā vidé | náyan ṛtásya prá-śiṣo navī́yasīḥ pátir jánīnām úpa yāti niḥ-kṛtám ||
He weaves around with the Sun’s rays, stretching the thread in a triple fashion for right knowing. Leading the ever-new instructions of ṛta, the lord of the races comes near to the clear opening (the released passage).
सः । सूर्य॑स्य । र॒श्मिऽभिः॑ । परि॑ । व्य॒त॒ । तन्तु॑म् । त॒न्वा॒नः । त्रि॒ऽवृत॑म् । यथा॑ । वि॒दे । नय॑न् । ऋ॒तस्य॑ । प्र॒ऽशिषः॑ । नवी॑यसीः । पतिः॑ । जनी॑नाम् । उप॑ । या॒ति॒ । निः॒ऽकृ॒तम् ॥सः । सूर्यस्य । रश्मिभिः । परि । व्यत । तन्तुम् । तन्वानः । त्रिवृतम् । यथा । विदे । नयन् । ऋतस्य । प्रशिषः । नवीयसीः । पतिः । जनीनाम् । उप । याति । निःकृतम् ॥saḥ | sūryasya | raśmi-bhiḥ | pari | vyata | tantum | tanvānaḥ | tri-vṛtam | yathā | vide | nayan | ṛtasya | pra-śiṣaḥ | navīyasīḥ | patiḥ | janīnām | upa | yāti | niḥ-kṛtam