Sukta 9.86
त्वं पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे । त्वामुशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे ॥
त्वं प॒वित्रे॒ रज॑सो॒ विध॑र्मणि दे॒वेभ्य॑: सोम पवमान पूयसे । त्वामु॒शिज॑: प्रथ॒मा अ॑गृभ्णत॒ तुभ्ये॒मा विश्वा॒ भुव॑नानि येमिरे ॥
tváṃ pavítre rájaso ví-dharmaṇi devébhyaḥ soma pavamāna pūyase | tvā́m uśíjaḥ prathamā́ agṛbhṇata túbhyemā́ víśvā bhúvanāni yemire ||
Thou art purified in the strainer, in the wide spaces of ordered law, for the gods, O Soma Pavamāna. The first seekers of the flame took thee; for thee all the worlds set themselves in their right harness.
त्वम् । प॒वित्रे॑ । रज॑सः । विऽध॑र्मणि । दे॒वेभ्यः॑ । सो॒म॒ । प॒व॒मा॒न॒ । पू॒य॒से॒ । त्वाम् । उ॒शिजः॑ । प्र॒थ॒माः । अ॒गृ॒भ्ण॒त॒ । तुभ्य॑ । इ॒मा । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥त्वम् । पवित्रे । रजसः । विधर्मणि । देवेभ्यः । सोम । पवमान । पूयसे । त्वाम् । उशिजः । प्रथमाः । अगृभ्णत । तुभ्य । इमा । विश्वा । भुवनानि । येमिरे ॥tvam | pavitre | rajasaḥ | vi-dharmaṇi | devebhyaḥ | soma | pavamāna | pūyase | tvām | uśijaḥ | prathamāḥ | agṛbhṇata | tubhya | imā | viśvā | bhuvanāni | yemire