Sukta 9.86
त्वं समुद्रो असि विश्ववित्कवे तवेमाः पञ्च प्रदिशो विधर्मणि । त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः ॥
त्वं स॑मु॒द्रो अ॑सि विश्व॒वित्क॑वे॒ तवे॒माः पञ्च॑ प्र॒दिशो॒ विध॑र्मणि । त्वं द्यां च॑ पृथि॒वीं चाति॑ जभ्रिषे॒ तव॒ ज्योतीं॑षि पवमान॒ सूर्य॑: ॥
tváṃ samudró asi viśvá-vit kavé tavémāḥ páñca pra-díśo ví-dharmaṇi | tváṃ dyā́ṃ ca pṛthivī́ṃ cā́ti jabhriṣe táva jyótīṃṣi pavamāna sū́ryaḥ ||
Thou art the ocean, O all-knowing Seer; thine are the five directions in the wide law. Thou hast borne beyond both heaven and earth; thy lights, O Pavamāna, are the Sun.
त्वम् । स॒मु॒द्रः । अ॒सि॒ । वि॒श्व॒ऽवित् । क॒वे॒ । तव॑ । इ॒माः । पञ्च॑ । प्र॒ऽदिशः॑ । विऽध॑र्मणि । त्वम् । द्याम् । च॒ । पृ॒थि॒वीम् । च॒ । अति॑ । ज॒भ्रि॒षे॒ । तव॑ ज्योतीं॑षि । प॒व॒मा॒न॒ । सूर्यः॑ ॥त्वम् । समुद्रः । असि । विश्ववित् । कवे । तव । इमाः । पञ्च । प्रदिशः । विधर्मणि । त्वम् । द्याम् । च । पृथिवीम् । च । अति । जभ्रिषे । तव ज्योतींषि । पवमान । सूर्यः ॥tvam | samudraḥ | asi | viśva-vit | kave | tava | imāḥ | pañca | pra-diśaḥ | vi-dharmaṇi | tvam | dyām | ca | pṛthivīm | ca | ati | jabhriṣe | tava | jyotīṃṣi | pavamāna | sūryaḥ