Sukta 9.86
प्र ते मदासो मदिरास आशवोऽसृक्षत रथ्यासो यथा पृथक् । धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः ॥
प्र ते॒ मदा॑सो मदि॒रास॑ आ॒शवोऽसृ॑क्षत॒ रथ्या॑सो॒ यथा॒ पृथ॑क् । धे॒नुर्न व॒त्सं पय॑सा॒भि व॒ज्रिण॒मिन्द्र॒मिन्द॑वो॒ मधु॑मन्त ऊ॒र्मय॑: ॥
prá te madā́so madirā́sa āśávo ’sṛkṣata rathyā́so yáthā pṛ́thak | dhenúr na vatsáṃ páyasā́bhi vajríṇam índram índavo mádhu-manta ū́rmayaḥ ||
Your swift ecstasies, O Soma—intoxicating currents—have been released like chariots fanning out on their ways. Like a cow to her calf with milk, the honey-full waves press toward Indra the wielder of the thunderbolt, to strengthen his victorious force in us.
प्र । ते॒ । मदा॑सः । म॒दि॒रासः॑ । आ॒शवः । असृ॑क्षत । रथ्या॑सः । यथा॑ । पृथ॑क् । धे॒नुः । न । व॒त्सम् । पय॑सा । अ॒भि । व॒ज्रिण॑म् । इन्द्र॑म् । इन्द॑वः । मधु॑ऽमन्तः । ऊ॒र्मयः॑ ॥प्र । ते । मदासः । मदिरासः । आशवः । असृक्षत । रथ्यासः । यथा । पृथक् । धेनुः । न । वत्सम् । पयसा । अभि । वज्रिणम् । इन्द्रम् । इन्दवः । मधुमन्तः । ऊर्मयः ॥pra | te | madāsaḥ | madirāsaḥ | āśavaḥ | asṛkṣata | rathyāsaḥ | yathā | pṛthak | dhenuḥ | na | vatsam | payasā | abhi | vajriṇam | indram | indavaḥ | madhu-mantaḥ | ūrmayaḥ