Sukta 9.86
तवेमाः प्रजा दिव्यस्य रेतसस्त्वं विश्वस्य भुवनस्य राजसि । अथेदं विश्वं पवमान ते वशे त्वमिन्दो प्रथमो धामधा असि ॥
तवे॒माः प्र॒जा दि॒व्यस्य॒ रेत॑स॒स्त्वं विश्व॑स्य॒ भुव॑नस्य राजसि । अथे॒दं विश्वं॑ पवमान ते॒ वशे॒ त्वमि॑न्दो प्रथ॒मो धा॑म॒धा अ॑सि ॥
tavémāḥ pra-jā́ divyásya rétasaḥ tváṃ víśvasya bhúvanasya rājasi | áthédaṃ víśvaṃ pavamāna té vaśé tvám indo prathamó dhāma-dhā́ asi ||
These births are thine, born of the divine seed; thou rulest over all becoming. Therefore this entire world, O Pavamāna, is under thy mastery; O Indu, thou art the first establisher of the foundations of the planes.
तव॑ । इ॒माः । प्र॒ऽजाः । दि॒व्यस्य॑ । रेत॑सः । त्वम् । विश्व॑स्य । भुव॑नस्य । रा॒ज॒सि॒ । अथ॑ । इ॒दम् । विश्व॑म् । प॒व॒मा॒न॒ । ते॒ । वशे॑ । त्वम् । इ॒न्दो॒ इति॑ । प्र॒थ॒मः । धा॒म॒ऽधाः । अ॒सि॒ ॥तव । इमाः । प्रजाः । दिव्यस्य । रेतसः । त्वम् । विश्वस्य । भुवनस्य । राजसि । अथ । इदम् । विश्वम् । पवमान । ते । वशे । त्वम् । इन्दो इति । प्रथमः । धामधाः । असि ॥tava | imāḥ | pra-jāḥ | divyasya | retasaḥ | tvam | viśvasya | bhuvanasya | rājasi | atha | idam | viśvam | pavamāna | te | vaśe | tvam | indo iti | prathamaḥ | dhāma-dhāḥ | asi