Sukta 9.86
असश्चतः शतधारा अभिश्रियो हरिं नवन्तेऽव ता उदन्युवः । क्षिपो मृजन्ति परि गोभिरावृतं तृतीये पृष्ठे अधि रोचने दिवः ॥
अ॒स॒श्चत॑: श॒तधा॑रा अभि॒श्रियो॒ हरिं॑ नव॒न्तेऽव॒ ता उ॑द॒न्युव॑: । क्षिपो॑ मृजन्ति॒ परि॒ गोभि॒रावृ॑तं तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ॥
asaścátaḥ śatá-dhārā abhi-śríyo hárim navante áva tā́ udanyúvaḥ | kṣípo mṛjanti pári góbhir ā́vṛtaṃ tṛtī́ye pṛṣṭhé ádhi rocané diváḥ ||
Unceasing, in a hundred streams, the powers of splendour bow down upon the golden one; they descend, eager with the waters. The swift energies cleanse him, encircling with rays of light the covered flow, upon the third luminous back, in the shining realm of heaven.
अ॒स॒श्चतः॑ । श॒तऽधा॑राः । अ॒भि॒ऽश्रियः॑ । हरि॑म् । न॒व॒न्ते । अव॑ । ताः । उ॒द॒न्युवः॑ । क्षिपः॑ । मृ॒ज॒न्ति॒ । परि॑ । गोभिः॑ । आऽवृ॑तम् । तृ॒तीये॑ । पृ॒ष्ठे । अधि॑ । रो॒च॒ने । दि॒वः ॥असश्चतः । शतधाराः । अभिश्रियः । हरिम् । नवन्ते । अव । ताः । उदन्युवः । क्षिपः । मृजन्ति । परि । गोभिः । आवृतम् । तृतीये । पृष्ठे । अधि । रोचने । दिवः ॥asaścataḥ | śata-dhārāḥ | abhi-śriyaḥ | harim | navante | ava | tāḥ | udanyuvaḥ | kṣipaḥ | mṛjanti | pari | gobhiḥ | āvṛtam | tṛtīye | pṛṣṭhe | adhi | rocane | divaḥ