Sukta 9.86
इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन्त्सुपथानि यज्यवे । गाः कृण्वानो निर्णिजं हर्यतः कविरत्यो न क्रीळन्परि वारमर्षति ॥
इन्दु॑: पुना॒नो अति॑ गाहते॒ मृधो॒ विश्वा॑नि कृ॒ण्वन्त्सु॒पथा॑नि॒ यज्य॑वे । गाः कृ॑ण्वा॒नो नि॒र्णिजं॑ हर्य॒तः क॒विरत्यो॒ न क्रीळ॒न्परि॒ वार॑मर्षति ॥
índuḥ punā́nó áti gāhate mṛ́dho víśvāni kṛṇvánt su-páthāni yájyave | gā́ḥ kṛṇvā́nó nir-níjaṃ haryatáḥ kavír átyo ná krīḷán pári vā́ram arṣati ||
Indu, the Soma-force, being purified, overpasses all resistances and for the sacrificer makes every path a path of ease. Creating the Rays of Light and the shining raiment, the luminous Seer, like a swift steed at play, flows around the enclosing sieve and presses onward.
इन्दुः॑ । पु॒ना॒नः । अति॑ । गा॒ह॒ते॒ । मृधः॑ । विश्वा॑नि । कृ॒ण्वन् । सु॒ऽपथा॑नि । यज्य॑वे । गाः । कृ॒ण्वा॒नः । निः॒ऽनिज॑म् । ह॒र्य॒तः । क॒विः । अत्यः॑ । न । क्रीळ॑न् । परि॑ । वार॑म् । अ॒र्ष॒ति॒ ॥इन्दुः । पुनानः । अति । गाहते । मृधः । विश्वानि । कृण्वन् । सुपथानि । यज्यवे । गाः । कृण्वानः । निःनिजम् । हर्यतः । कविः । अत्यः । न । क्रीळन् । परि । वारम् । अर्षति ॥induḥ | punānaḥ | ati | gāhate | mṛdhaḥ | viśvāni | kṛṇvan | su-pathāni | yajyave | gāḥ | kṛṇvānaḥ | niḥ-nijam | haryataḥ | kaviḥ | atyaḥ | na | krīḷan | pari | vāram | arṣati