Sukta 9.86
अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः । अपामुपस्थे अध्यायवः कविमृतस्य योना महिषा अहेषत ॥
अव्ये॑ पुना॒नं परि॒ वार॑ ऊ॒र्मिणा॒ हरिं॑ नवन्ते अ॒भि स॒प्त धे॒नव॑: । अ॒पामु॒पस्थे॒ अध्या॒यव॑: क॒विमृ॒तस्य॒ योना॑ महि॒षा अ॑हेषत ॥
ávyé punānáṃ pári vā́ra ū́rmiṇā hárim navante abhí saptá dhénavaḥ | apā́m upásthe ádhy ā́yavaḥ kavím ṛtásya yónā mahiṣā́ aheṣata ||
Purifying in the sheep’s wool, surrounded by the wave in the enclosing sieve, the seven milch-cows bow to the tawny one. In the lap of the waters the advancing powers have set the seer in place—the great ones have cried out toward the womb of the Truth (ṛta).
अव्ये॑ । पु॒ना॒नम् । परि॑ । वारे॑ । ऊ॒र्मिणा॑ । हरि॑म् । न॒व॒न्ते॒ । अ॒भि । स॒प्त । धे॒नवः॑ । अ॒पाम् । उ॒पऽस्थे॑ । अधि॑ । आ॒यवः॑ । क॒विम् । ऋ॒तस्य॑ । योना॑ । म॒हि॒षाः । अ॒हे॒ष॒त॒ ॥अव्ये । पुनानम् । परि । वारे । ऊर्मिणा । हरिम् । नवन्ते । अभि । सप्त । धेनवः । अपाम् । उपस्थे । अधि । आयवः । कविम् । ऋतस्य । योना । महिषाः । अहेषत ॥avye | punānam | pari | vāre | ūrmiṇā | harim | navante | abhi | sapta | dhenavaḥ | apām | upa-sthe | adhi | āyavaḥ | kavim | ṛtasya | yonā | mahiṣāḥ | aheṣata