Sukta 9.86
त्वां सोम पवमानं स्वाध्योऽनु विप्रासो अमदन्नवस्यवः । त्वां सुपर्ण आभरद्दिवस्परीन्दो विश्वाभिर्मतिभिः परिष्कृतम् ॥
त्वां सो॑म॒ पव॑मानं स्वा॒ध्योऽनु॒ विप्रा॑सो अमदन्नव॒स्यव॑: । त्वां सु॑प॒र्ण आभ॑रद्दि॒वस्परीन्दो॒ विश्वा॑भिर्म॒तिभि॒: परि॑ष्कृतम् ॥
tvā́ṃ soma pavamānaṃ svādhyò ’nú viprā́so amadan avasyávaḥ | tvā́ṃ supárṇa ā́bharad divás párīndo víśvābhir matíbhiḥ páriṣkṛtam ||
You, O Soma, purifying, the self-ruled, the seers follow and rejoice in, seeking your aid. You the fair-winged one has brought from beyond heaven, O Indu—made perfect by all the thoughts.
त्वाम् । सो॒म॒ । पव॑मानम् । सु॒ऽआ॒ध्यः॑ । अनु॑ । विप्रा॑सः । अ॒म॒द॒न् । अ॒व॒स्यवः॑ । त्वाम् । सु॒ऽप॒र्णः । आ । अ॒भ॒र॒त् । दि॒वः । परि॑ । इन्दो॒ इति॑ । विश्वा॑भिः । म॒तिऽभिः॑ । परि॑ऽकृतम् ॥त्वाम् । सोम । पवमानम् । सुआध्यः । अनु । विप्रासः । अमदन् । अवस्यवः । त्वाम् । सुपर्णः । आ । अभरत् । दिवः । परि । इन्दो इति । विश्वाभिः । मतिभिः । परिकृतम् ॥tvām | soma | pavamānam | su-ādhyaḥ | anu | viprāsaḥ | amadan | avasyavaḥ | tvām | su-parṇaḥ | ā | abharat | divaḥ | pari | indo iti | viśvābhiḥ | mati-bhiḥ | pari-kṛtam