Sukta 9.86
अद्रिभिः सुतः पवसे पवित्र आँ इन्दविन्द्रस्य जठरेष्वाविशन् । त्वं नृचक्षा अभवो विचक्षण सोम गोत्रमङ्गिरोभ्योऽवृणोरप ॥
अद्रि॑भिः सु॒तः प॑वसे प॒वित्र॒ आँ इन्द॒विन्द्र॑स्य ज॒ठरे॑ष्वावि॒शन् । त्वं नृ॒चक्षा॑ अभवो विचक्षण॒ सोम॑ गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रप॑ ॥
ádribhiḥ sutáḥ pavase pavítra ā́ índav índrasya jaṭháreṣv āviśán | tváṃ nṛcákṣā abhavo vi-cakṣaṇa soma gótram áṅgirobhyo ’vṛṇor ápa ||
Pressed by the stones, you purify yourself, O Indu, entering the strainer; entering Indra’s bellies. You became the seer of men, wide-seeing Soma; you opened the concealed ‘cow-pen’ for the Angirases.
अद्रि॑ऽभिः । सु॒तः । प॒व॒से॒ । प॒वित्रे॑ । आ । इन्दो॒ इति॑ । इन्द्र॑स्य । ज॒ठरे॑षु । आ॒ऽवि॒शन् । त्वम् । नृ॒ऽचक्षाः॑ । अ॒भ॒वः॒ । वि॒ऽच॒क्ष॒ण॒ । सोम॑ । गो॒त्रम् । अङ्गि॑रःऽभ्यः । अ॒वृ॒णोः॒ । अप॑ ॥अद्रिभिः । सुतः । पवसे । पवित्रे । आ । इन्दो इति । इन्द्रस्य । जठरेषु । आविशन् । त्वम् । नृचक्षाः । अभवः । विचक्षण । सोम । गोत्रम् । अङ्गिरःभ्यः । अवृणोः । अप ॥adri-bhiḥ | sutaḥ | pavase | pavitre | ā | indo iti | indrasya | jaṭhareṣu | ā-viśan | tvam | nṛ-cakṣāḥ | abhavaḥ | vi-cakṣaṇa | soma | gotram | aṅgiraḥ-bhyaḥ | avṛṇoḥ | apa