Sukta 9.86
पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ । सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतः सूर्यमारोहयो दिवि ॥
पव॑स्व सोम दि॒व्येषु॒ धाम॑सु सृजा॒न इ॑न्दो क॒लशे॑ प॒वित्र॒ आ । सीद॒न्निन्द्र॑स्य ज॒ठरे॒ कनि॑क्रद॒न्नृभि॑र्य॒तः सूर्य॒मारो॑हयो दि॒वि ॥
pávasva soma divyéṣu dhā́masu sṛjāná indo kalaśé pavítra ā́ | sī́dann índrasya jaṭháre kánikradan nṛ́bhir yatáḥ sū́ryam ā́rohayo diví ||
Purify yourself, O Soma, in the divine abodes; being released, O Indu, enter the bowl, the strainer. Sitting in Indra’s belly, crying aloud, supported by the human powers, you have raised the Sun in heaven.
पव॑स्व । सो॒म॒ । दि॒व्येषु॑ । धाम॑ऽसु । सृ॒जा॒नः । इ॒न्दो॒ इति॑ । क॒लशे॑ । प॒वित्रे॑ । आ । सीद॑न् । इन्द्र॑स्य । ज॒ठरे॑ । कनि॑क्रदत् । नृऽभिः॑ । य॒तः । सूर्य॑म् । आ । अ॒रो॒ह॒यः॒ । दि॒वि ॥पवस्व । सोम । दिव्येषु । धामसु । सृजानः । इन्दो इति । कलशे । पवित्रे । आ । सीदन् । इन्द्रस्य । जठरे । कनिक्रदत् । नृभिः । यतः । सूर्यम् । आ । अरोहयः । दिवि ॥pavasva | soma | divyeṣu | dhāma-su | sṛjānaḥ | indo iti | kalaśe | pavitre | ā | sīdan | indrasya | jaṭhare | kanikradat | nṛ-bhiḥ | yataḥ | sūryam | ā | arohayaḥ | divi