Sukta 9.86
अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोककृत् । अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥
अ॒यं पु॑ना॒न उ॒षसो॒ वि रो॑चयद॒यं सिन्धु॑भ्यो अभवदु लोक॒कृत् । अ॒यं त्रिः स॒प्त दु॑दुहा॒न आ॒शिरं॒ सोमो॑ हृ॒दे प॑वते॒ चारु॑ मत्स॒रः ॥
ayáṃ punāná uṣáso ví rocayad ayáṃ síndhubhyo abhavad u loka-kṛ́t | ayáṃ tríḥ saptá duduhāná āśíraṃ sómo hṛdé pavate cā́ru matsaráḥ ||
This Soma, purifying, makes the dawns shine; this one becomes for the rivers a maker of the world-order. This one, milking the mixture (āśir) three times seven, Soma purifies in the heart—beautiful in ecstasy of delight.
अ॒यम् । पु॒ना॒नः । उ॒षसः॑ । वि । रो॒च॒य॒त् । अ॒यम् । सिन्धु॑ऽभ्यः । अ॒भ॒व॒त् । ऊँ॒ इति॑ । लो॒क॒ऽकृत् । अ॒यम् । त्रिः । स॒प्त । दु॒दु॒हा॒नः । आ॒ऽशिर॑म् । सोमः॑ । हृ॒दे । प॒व॒ते॒ । चारु॑ । म॒त्स॒रः ॥अयम् । पुनानः । उषसः । वि । रोचयत् । अयम् । सिन्धुभ्यः । अभवत् । ऊँ इति । लोककृत् । अयम् । त्रिः । सप्त । दुदुहानः । आशिरम् । सोमः । हृदे । पवते । चारु । मत्सरः ॥ayam | punānaḥ | uṣasaḥ | vi | rocayat | ayam | sindhu-bhyaḥ | abhavat | oṃ iti | loka-kṛt | ayam | triḥ | sapta | duduhānaḥ | āśiram | somaḥ | hṛde | pavate | cāru | matsaraḥ