Sukta 9.86
मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशाँ अचिक्रदत् । त्रितस्य नाम जनयन्मधु क्षरदिन्द्रस्य वायोः सख्याय कर्तवे ॥
म॒नी॒षिभि॑: पवते पू॒र्व्यः क॒विर्नृभि॑र्य॒तः परि॒ कोशाँ॑ अचिक्रदत् । त्रि॒तस्य॒ नाम॑ ज॒नय॒न्मधु॑ क्षर॒दिन्द्र॑स्य वा॒योः स॒ख्याय॒ कर्त॑वे ॥
manīṣíbhiḥ pavate pū́rvyaḥ kavír nṛ́bhir yatáḥ pári kośā́ṃ acikradat | tritásya nā́ma janáyan mádhu kṣárad índrasya vāyóḥ sakhyā́ya kártave ||
With the illumined understandings he purifies himself, the ancient seer; supported by the human powers he ranges around the vessels. Bringing to birth the name of Trita, he drips sweetness—so as to establish the friendship of Indra and Vayu.
म॒नी॒षिऽभिः॑ । प॒व॒ते॒ । पू॒र्व्यः । क॒विः । नृऽभिः॑ । य॒तः । परि॑ । कोशा॑न् । अ॒चि॒क्र॒द॒त् । त्रि॒तस्य॑ । नाम॑ । ज॒नय॑न् । मधु॑ । क्षर॑त् । इन्द्र॑स्य । वा॒योः । स॒ख्याय॑ । कर्त॑वे ॥मनीषिभिः । पवते । पूर्व्यः । कविः । नृभिः । यतः । परि । कोशान् । अचिक्रदत् । त्रितस्य । नाम । जनयन् । मधु । क्षरत् । इन्द्रस्य । वायोः । सख्याय । कर्तवे ॥manīṣi-bhiḥ | pavate | pūrvyaḥ | kaviḥ | nṛ-bhiḥ | yataḥ | pari | kośān | acikradat | tritasya | nāma | janayan | madhu | kṣarat | indrasya | vāyoḥ | sakhyāya | kartave