Sukta 9.86
वृषा मतीनां पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः । क्राणा सिन्धूनां कलशाँ अवीवशदिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥
वृषा॑ मती॒नां प॑वते विचक्ष॒णः सोमो॒ अह्न॑: प्रतरी॒तोषसो॑ दि॒वः । क्रा॒णा सिन्धू॑नां क॒लशाँ॑ अवीवश॒दिन्द्र॑स्य॒ हार्द्या॑वि॒शन्म॑नी॒षिभि॑: ॥
vṛ́ṣā matīnā́ṃ pavate vi-cakṣaṇáḥ sómo áhnaḥ pratarītóṣáso diváḥ | krāṇā síndhūnāṃ kalaśā́n avīvaśad índrasya hā́rdy ā́viśan manīṣíbhiḥ ||
A strong bull of the inspirations he purifies himself, wide-seeing Soma, traversing the day, the dawns, the heaven. Gathering the rivers, he drives them into the bowls; entering the heart of Indra, he comes with the seers’ illumined understandings.
वृषा॑ । म॒ती॒नाम् । प॒व॒ते॒ । वि॒ऽच॒क्ष॒णः । सोमः॑ । अह्नः॑ । प्र॒ऽत॒री॒ता । उ॒षसः॑ । दि॒वः । क्रा॒णा । सिन्धू॑नाम् । क॒लशा॑न् । अ॒वी॒व॒श॒त् । इन्द्र॑स्य । हार्दि॑ । आ॒ऽवि॒शन् । म॒नी॒षिऽभिः॑ ॥वृषा । मतीनाम् । पवते । विचक्षणः । सोमः । अह्नः । प्रतरीता । उषसः । दिवः । क्राणा । सिन्धूनाम् । कलशान् । अवीवशत् । इन्द्रस्य । हार्दि । आविशन् । मनीषिभिः ॥vṛṣā | matīnām | pavate | vi-cakṣaṇaḥ | somaḥ | ahnaḥ | pra-tarītā | uṣasaḥ | divaḥ | krāṇā | sindhūnām | kalaśān | avīvaśat | indrasya | hārdi | ā-viśan | manīṣi-bhiḥ