Sukta 9.86
आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमानो अस्रिधम् । या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम् ॥
आ न॑: सोम सं॒यतं॑ पि॒प्युषी॒मिष॒मिन्दो॒ पव॑स्व॒ पव॑मानो अ॒स्रिध॑म् । या नो॒ दोह॑ते॒ त्रिरह॒न्नस॑श्चुषी क्षु॒मद्वाज॑व॒न्मधु॑मत्सु॒वीर्य॑म् ॥
ā́ naḥ soma saṃyátaṃ pipyúṣīm íṣam indo pavasva pavamāno asrídham | yā́ no dóhate trír áhan ásaścuṣī kṣúmad vājávan mádhumat suvī́ryam ||
Come to us, O Soma, with controlled abundance—an expanding impulsion of force. O Indu, purify yourself, O Pavamāna, without failure: she who milks for us thrice a day, unexhausted, yields a plenitude with strength, with the prize of force, with sweetness, with heroic power.
आ । नः॒ । सो॒म॒ । स॒म्ऽयत॑म् । पि॒प्युषी॑म् । इष॑म् । इन्दो॒ इति॑ । पव॑स्व । पव॑मानः । अ॒स्रिध॑म् । या । नः॒ । दोह॑ते । त्रिः । अह॑न् । अस॑श्चुषी । क्षु॒ऽमत् । वाज॑ऽवत् । मधु॑ऽमत् । सु॒ऽवीर्य॑म् ॥आ । नः । सोम । सम्यतम् । पिप्युषीम् । इषम् । इन्दो इति । पवस्व । पवमानः । अस्रिधम् । या । नः । दोहते । त्रिः । अहन् । असश्चुषी । क्षुमत् । वाजवत् । मधुमत् । सुवीर्यम् ॥ā | naḥ | soma | sam-yatam | pipyuṣīm | iṣam | indo iti | pavasva | pavamānaḥ | asridham | yā | naḥ | dohate | triḥ | ahan | asaścuṣī | kṣu-mat | vāja-vat | madhu-mat | su-vīryam