Sukta 9.86
प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्वक्रमुः । सोमं मनीषा अभ्यनूषत स्तुभोऽभि धेनवः पयसेमशिश्रयुः ॥
प्र वो॒ धियो॑ मन्द्र॒युवो॑ विप॒न्युव॑: पन॒स्युव॑: सं॒वस॑नेष्वक्रमुः । सोमं॑ मनी॒षा अ॒भ्य॑नूषत॒ स्तुभो॒ऽभि धे॒नव॒: पय॑सेमशिश्रयुः ॥
prá vo dhíyo mandráyúvo vipanyúvaḥ panasyúvaḥ saṃvásaneṣv akramuḥ | sómaṃ manīṣā́ abhy ànūṣata stúbho ’bhí dhénavaḥ páyasā īm aśiśrayuḥ ||
Forward go your thoughts, delight-young, seeking the wonder and the joy; they step into the shared vestures (the ordered forms). The inspired understandings chant toward Soma; the hymns and the milch-cows press to him with their milk—nourishment of luminous force.
प्र । वः॒ । धियः॑ । म॒न्द्र॒ऽयुवः॑ । वि॒प॒न्युवः॑ । प॒न॒स्युवः॑ । स॒म्ऽवस॑नेषु । अ॒क्र॒मुः॒ । सोम॑म् । म॒नी॒षाः । अ॒भि । अ॒नू॒ष॒त॒ । स्तुभः॑ । अ॒भि । धे॒नवः॑ । पय॑सा । ई॒म् । अ॒शि॒श्र॒युः॒ ॥प्र । वः । धियः । मन्द्रयुवः । विपन्युवः । पनस्युवः । सम्वसनेषु । अक्रमुः । सोमम् । मनीषाः । अभि । अनूषत । स्तुभः । अभि । धेनवः । पयसा । ईम् । अशिश्रयुः ॥pra | vaḥ | dhiyaḥ | mandra-yuvaḥ | vipanyuvaḥ | panasyuvaḥ | sam-vasaneṣu | akramuḥ | somam | manīṣāḥ | abhi | anūṣata | stubhaḥ | abhi | dhenavaḥ | payasā | īm | aśiśrayuḥ