Sukta 9.86
सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमं व्यानशे । पदं यदस्य परमे व्योमन्यतो विश्वा अभि सं याति संयतः ॥
सो अ॑स्य वि॒शे महि॒ शर्म॑ यच्छति॒ यो अ॑स्य॒ धाम॑ प्रथ॒मं व्या॑न॒शे । प॒दं यद॑स्य पर॒मे व्यो॑म॒न्यतो॒ विश्वा॑ अ॒भि सं या॑ति सं॒यत॑: ॥
só asya viśé máhi śárma yacchati yó asya dhā́ma prathamáṃ vyānáśe | padáṃ yád asya paramé vyòmani atáḥ víśvā abhí sáṃ yāti saṃ-yatáḥ ||
He gives to this people a great peace and shelter—he who first attains his home. When his step is in the highest heaven, then from that height all things move toward him in a gathered harmony: the whole nature is yoked to the truth-center established above.
सः । अ॒स्य॒ । वि॒शे । महि॑ । शर्म॑ । य॒च्छ॒ति॒ । यः । अ॒स्य॒ । धाम॑ । प्र॒थ॒मम् । वि॒ऽआ॒न॒शे । प॒दम् । यत् । अ॒स्य॒ । प॒र॒मे । विऽओ॑मनि । अतः॑ । विश्वाः॑ । अ॒भि । सम् । या॒ति॒ । स॒म्ऽयतः॑ ॥सः । अस्य । विशे । महि । शर्म । यच्छति । यः । अस्य । धाम । प्रथमम् । विआनशे । पदम् । यत् । अस्य । परमे । विओमनि । अतः । विश्वाः । अभि । सम् । याति । सम्यतः ॥saḥ | asya | viśe | mahi | śarma | yacchati | yaḥ | asya | dhāma | prathamam | vi-ānaśe | padam | yat | asya | parame | vi-omani | ataḥ | viśvāḥ | abhi | sam | yāti | sam-yataḥ