Sukta 9.86
द्रापिं वसानो यजतो दिविस्पृशमन्तरिक्षप्रा भुवनेष्वर्पितः । स्वर्जज्ञानो नभसाभ्यक्रमीत्प्रत्नमस्य पितरमा विवासति ॥
द्रा॒पिं वसा॑नो यज॒तो दि॑वि॒स्पृश॑मन्तरिक्ष॒प्रा भुव॑ने॒ष्वर्पि॑तः । स्व॑र्जज्ञा॒नो नभ॑सा॒भ्य॑क्रमीत्प्र॒त्नम॑स्य पि॒तर॒मा वि॑वासति ॥
drāpíṃ vásāno yajató divi-spṛ́śam antarikṣa-prā́ bhuváneṣv arpítaḥ | svàr jajñānó nábhasā́bhy àkramīt pratnám asya pitáram ā́ vivāsati ||
Clothed in his mantle, adorable, touching heaven, filling the mid-world, set within the worlds—born to the Light, he has stepped forth with the vastness. He goes to awaken the ancient Father: the hidden origin is recalled and made present by the ascending clarified power.
द्रा॒पिम् । वसा॑नः । य॒ज॒तः । दि॒वि॒ऽस्पृश॑म् । अ॒न्त॒रि॒क्ष॒ऽप्राः । भुव॑नेषु । अर्पि॑तः । स्वः॑ । ज॒ज्ञा॒नः । नभ॑सा । अ॒भि । अ॒क्र॒मी॒त् । प्र॒त्नम् । अ॒स्य॒ । पि॒तर॑म् । आ । वि॒वा॒स॒ति॒ ॥द्रापिम् । वसानः । यजतः । दिविस्पृशम् । अन्तरिक्षप्राः । भुवनेषु । अर्पितः । स्वः । जज्ञानः । नभसा । अभि । अक्रमीत् । प्रत्नम् । अस्य । पितरम् । आ । विवासति ॥drāpim | vasānaḥ | yajataḥ | divi-spṛśam | antarikṣa-prāḥ | bhuvaneṣu | arpitaḥ | svaḥ | jajñānaḥ | nabhasā | abhi | akramīt | pratnam | asya | pitaram | ā | vivāsati