Sukta 9.86
अयं मतवाञ्छकुनो यथा हितोऽव्ये ससार पवमान ऊर्मिणा । तव क्रत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते ॥
अ॒यं म॒तवा॑ञ्छकु॒नो यथा॑ हि॒तोऽव्ये॑ ससार॒ पव॑मान ऊ॒र्मिणा॑ । तव॒ क्रत्वा॒ रोद॑सी अन्त॒रा क॑वे॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ॥
ayáṃ matávāñ śakunó yáthā hitó ’ávyē sasāra pávamāna ū́rmiṇā | táva krátvā rodasī́ ántarā kave śúcir dhiyā́ pavate sóma índra te ||
This inspired one, like a bird set free, has rushed through the wool with his wave. By your will, O seer, between the two worlds he flows—Soma, pure in thought—for you, O Indra: an ascent of clarified delight that moves in the mid-space of the being.
अ॒यम् । म॒तऽवा॑न् । श॒कु॒नः । यथा॑ । हि॒तः । अव्ये॑ । स॒सा॒र॒ । पव॑मानः । ऊ॒र्मिणा॑ । तव॑ । क्रत्वा॑ । रोद॑सी॒ इति॑ । अ॒न्त॒रा । क॒वे॒ । शुचिः॑ । धि॒या । प॒व॒ते॒ सोम॑ इन्द्र ते ॥अयम् । मतवान् । शकुनः । यथा । हितः । अव्ये । ससार । पवमानः । ऊर्मिणा । तव । क्रत्वा । रोदसी इति । अन्तरा । कवे । शुचिः । धिया । पवते सोम इन्द्र ते ॥ayam | mata-vān | śakunaḥ | yathā | hitaḥ | avye | sasāra | pavamānaḥ | ūrmiṇā | tava | kratvā | rodasī iti | antarā | kave | śuciḥ | dhiyā | pavate | soma | indra | te