Sukta 9.86
अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छति । अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा ॥
अग्रे॒ सिन्धू॑नां॒ पव॑मानो अर्ष॒त्यग्रे॑ वा॒चो अ॑ग्रि॒यो गोषु॑ गच्छति । अग्रे॒ वाज॑स्य भजते महाध॒नं स्वा॑यु॒धः सो॒तृभि॑: पूयते॒ वृषा॑ ॥
ágre síndhūnāṃ pávamāno arṣaty ágre vā́co agriyó góṣu gacchati | ágre vā́jasya bhajate mahā-dhánam svā́yudhaḥ sotṛ́bhiḥ pū́yate vṛ́ṣā ||
Foremost among the streams the self-purifying one rushes; foremost in the word he moves as the leader among the rays of illumination. Foremost he wins the plenitude of force and the great treasure: self-armed, the strong one is purified by the pressers—so the soul may take precedence over obscurity in every movement.
अग्रे॑ । सिन्धू॑नाम् । पव॑मानः । अ॒र्ष॒ति॒ । अग्रे॑ । वा॒चः । अ॒ग्रि॒यः । गोषु॑ । ग॒च्छ॒ति॒ । अग्रे॑ । वाज॑स्य । भ॒ज॒ते॒ । म॒हा॒ऽध॒नम् । सु॒ऽआ॒यु॒धः । सो॒तृऽभिः॑ । पू॒य॒ते॒ । वृषा॑ ॥अग्रे । सिन्धूनाम् । पवमानः । अर्षति । अग्रे । वाचः । अग्रियः । गोषु । गच्छति । अग्रे । वाजस्य । भजते । महाधनम् । सुआयुधः । सोतृभिः । पूयते । वृषा ॥agre | sindhūnām | pavamānaḥ | arṣati | agre | vācaḥ | agriyaḥ | goṣu | gacchati | agre | vājasya | bhajate | mahādhanam | su-āyudhaḥ | sotṛ-bhiḥ | pūyate | vṛṣā