Sukta 9.86
अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः । हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ॥
अ॒भि॒क्रन्द॑न्क॒लशं॑ वा॒ज्य॑र्षति॒ पति॑र्दि॒वः श॒तधा॑रो विचक्ष॒णः । हरि॑र्मि॒त्रस्य॒ सद॑नेषु सीदति मर्मृजा॒नोऽवि॑भि॒: सिन्धु॑भि॒र्वृषा॑ ॥
abhikrन्दán kalaśáṃ vājī́ arṣati pátir diváḥ śatá-dhāro vi-cakṣaṇáḥ | hárir mitrásya sádanēṣu sīdati marmṛjānó ’vi-bhiḥ síndhu-bhir vṛ́ṣā ||
Crying aloud, the impelling one streams to the cup—lord of heaven, hundred-streamed, wide-seeing. The tawny Soma settles in the seats of Mitra, being thoroughly cleansed by the sheep-wools and the rivers: a strong generative power made fit for harmony and right measure.
अ॒भि॒ऽक्रन्द॑न् । क॒लश॑म् । वा॒जी । अ॒र्ष॒ति॒ । पतिः॑ । दि॒वः । श॒तऽधा॑रः । वि॒ऽच॒क्ष॒णः । हरिः॑ । मि॒त्रस्य॑ । सद॑नेषु । सी॒द॒ति॒ । म॒र्मृ॒जा॒नः । अवि॑ऽभिः । सिन्धु॑ऽभिः । वृषा॑ ॥अभिक्रन्दन् । कलशम् । वाजी । अर्षति । पतिः । दिवः । शतधारः । विचक्षणः । हरिः । मित्रस्य । सदनेषु । सीदति । मर्मृजानः । अविभिः । सिन्धुभिः । वृषा ॥abhi-krandan | kalaśam | vājī | arṣati | patiḥ | divaḥ | śata-dhāraḥ | vi-cakṣaṇaḥ | hariḥ | mitrasya | sadaneṣu | sīdati | marmṛjānaḥ | avi-bhiḥ | sindhu-bhiḥ | vṛṣā