Sukta 9.85
अधि द्यामस्थाद्वृषभो विचक्षणोऽरूरुचद्वि दिवो रोचना कविः । राजा पवित्रमत्येति रोरुवद्दिवः पीयूषं दुहते नृचक्षसः ॥
अधि॒ द्याम॑स्थाद्वृष॒भो वि॑चक्ष॒णोऽरू॑रुच॒द्वि दि॒वो रो॑च॒ना क॒विः । राजा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वद्दि॒वः पी॒यूषं॑ दुहते नृ॒चक्ष॑सः ॥
ádhi dyā́m asthād vṛṣabhó vi-cakṣaṇó ’rūrucad ví divó rocanā́ kavíḥ | rājā pavítram átyeti róruvad diváḥ pīyū́ṣaṃ duhate nṛ-cákṣasaḥ ||
He, the Bull of power, the wide-seeing Seer, has taken his station above heaven and has made the luminous realms of the sky blaze forth. The King passes beyond the filter with a resounding cry; the seers with the vision of man draw out the nectar of heaven.
अधि॑ । द्याम् । अ॒स्था॒त् । वृ॒ष॒भः । वि॒ऽच॒क्ष॒णः । अरू॑रुचात् । वि । दि॒वः । रो॒च॒ना । क॒विः । राजा॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रोरु॑वत् । दि॒वः । पी॒यूष॑म् । दु॒ह॒ते॒ नृ॒चक्ष॑सः ॥अधि । द्याम् । अस्थात् । वृषभः । विचक्षणः । अरूरुचात् । वि । दिवः । रोचना । कविः । राजा । पवित्रम् । अति । एति । रोरुवत् । दिवः । पीयूषम् । दुहते नृचक्षसः ॥adhi | dyām | asthāt | vṛṣabhaḥ | vi-cakṣaṇaḥ | arūrucāt | vi | divaḥ | rocanā | kaviḥ | rājā | pavitram | ati | eti | roruvat | divaḥ | pīyūṣam | duhate | nṛ-cakṣasaḥ