Sukta 9.85
दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम् । अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोरूर्मा मधुमन्तं पवित्र आ ॥
दि॒वो नाके॒ मधु॑जिह्वा अस॒श्चतो॑ वे॒ना दु॑हन्त्यु॒क्षणं॑ गिरि॒ष्ठाम् । अ॒प्सु द्र॒प्सं वा॑वृधा॒नं स॑मु॒द्र आ सिन्धो॑रू॒र्मा मधु॑मन्तं प॒वित्र॒ आ ॥
divó nā́ke mádhu-jihvā asaścáto venā́ duhanty ukṣáṇaṃ giri-sthā́m | apsú drápsaṃ vāvṛdhānáṃ samudrá ā́ síndhor ūrmā́ mádhu-mantaṃ pavítra ā́ ||
In the heaven’s summit the desirous powers, honey-tongued and unwearied, milk out the Bull who stands upon the heights. In the waters the growing Drop is fostered; from the ocean, from the River’s wave, the honey-rich essence comes to the filter.
दि॒वः । नाके॑ । मधु॑ऽजिह्वाः । अ॒स॒श्चतः॑ । वे॒नाः । दु॒ह॒न्ति॒ । उ॒क्षण॑म् । गि॒रि॒ऽस्थाम् । अ॒प्ऽसु । द्र॒प्सम् । व॒वृ॒धा॒नम् । स॒मु॒द्रे । आ । सिन्धोः॑ । ऊ॒र्मा । मधु॑ऽमन्तम् । प॒वित्रे॑ । आ ॥दिवः । नाके । मधुजिह्वाः । असश्चतः । वेनाः । दुहन्ति । उक्षणम् । गिरिस्थाम् । अप्सु । द्रप्सम् । ववृधानम् । समुद्रे । आ । सिन्धोः । ऊर्मा । मधुमन्तम् । पवित्रे । आ ॥divaḥ | nāke | madhu-jihvāḥ | asaścataḥ | venāḥ | duhanti | ukṣaṇam | giri-sthām | ap-su | drapsam | vavṛdhānam | samudre | ā | sindhoḥ | ūrmā | madhu-mantam | pavitre | ā