Sukta 9.85
अत्यं मृजन्ति कलशे दश क्षिपः प्र विप्राणां मतयो वाच ईरते । पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रं विशन्ति मदिरास इन्दवः ॥
अत्यं॑ मृजन्ति क॒लशे॒ दश॒ क्षिप॒: प्र विप्रा॑णां म॒तयो॒ वाच॑ ईरते । पव॑माना अ॒भ्य॑र्षन्ति सुष्टु॒तिमेन्द्रं॑ विशन्ति मदि॒रास॒ इन्द॑वः ॥
átyaṃ mṛjanti kalaśé dáśa kṣípaḥ prá víprāṇāṃ matáyo vā́ca īrate | pávamānā abhyàrṣanti suṣṭutím ā́ índraṃ viśanti madirā́sa índavaḥ ||
Ten swift hands cleanse the steed in the cup; the thoughts and words of the inspired seers surge forward. Purifying, they flow toward the well-made hymn of praise; the intoxicating bright drops enter into Indra within us.
अत्य॑म् । मृ॒ज॒न्ति॒ । क॒लशे॑ । दश॑ । क्षिपः॑ । प्र । विप्रा॑णाम् । म॒तयः॑ । वाचः॑ । ई॒र॒ते॒ । पव॑मानाः । अ॒भि । अ॒र्ष॒न्ति॒ । सु॒ऽस्तु॒तिम् । आ । इन्द्र॑म् । वि॒श॒न्ति॒ । म॒दि॒रासः॑ । इन्द॑वः ॥अत्यम् । मृजन्ति । कलशे । दश । क्षिपः । प्र । विप्राणाम् । मतयः । वाचः । ईरते । पवमानाः । अभि । अर्षन्ति । सुस्तुतिम् । आ । इन्द्रम् । विशन्ति । मदिरासः । इन्दवः ॥atyam | mṛjanti | kalaśe | daśa | kṣipaḥ | pra | viprāṇām | matayaḥ | vācaḥ | īrate | pavamānāḥ | abhi | arṣanti | su-stutim | ā | indram | viśanti | madirāsaḥ | indavaḥ