Sukta 9.85
स्वादुः पवस्व दिव्याय जन्मने स्वादुरिन्द्राय सुहवीतुनाम्ने । स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमाँ अदाभ्यः ॥
स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने स्वा॒दुरिन्द्रा॑य सु॒हवी॑तुनाम्ने । स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ बृह॒स्पत॑ये॒ मधु॑माँ॒ अदा॑भ्यः ॥
svādúḥ pavasva divyā́ya jánmane svādúr índrāya suhavītunā́mne | svādúr mitrā́ya váruṇāya vāyáve bṛ́haspátaye mádhumāṃ ádābhyaḥ ||
Flow sweetly for the divine birth in us; flow sweetly for Indra, whose name is the good invocation. Flow sweetly for Mitra, Varuṇa, and Vāyu; flow as honey-full and unassailable for Bṛhaspati.
स्वा॒दुः । प॒व॒स्व॒ । दि॒व्याय॑ । जन्म॑ने । स्वा॒दुः । इन्द्रा॑य । सु॒हवी॑तुऽनाम्ने । स्वा॒दुः । मि॒त्राय॑ । वरु॑णाय । वा॒यवे॑ । बृह॒स्पत॑ये । मधु॑ऽमान् । अदा॑भ्यः ॥स्वादुः । पवस्व । दिव्याय । जन्मने । स्वादुः । इन्द्राय । सुहवीतुनाम्ने । स्वादुः । मित्राय । वरुणाय । वायवे । बृहस्पतये । मधुमान् । अदाभ्यः ॥svāduḥ | pavasva | divyāya | janmane | svāduḥ | indrāya | suhavītu-nāmne | svāduḥ | mitrāya | varuṇāya | vāyave | bṛhaspataye | madhu-mān | adābhyaḥ