Sukta 9.85
कनिक्रदत्कलशे गोभिरज्यसे व्यव्ययं समया वारमर्षसि । मर्मृज्यमानो अत्यो न सानसिरिन्द्रस्य सोम जठरे समक्षरः ॥
कनि॑क्रदत्क॒लशे॒ गोभि॑रज्यसे॒ व्य१॒॑व्ययं॑ स॒मया॒ वार॑मर्षसि । म॒र्मृ॒ज्यमा॑नो॒ अत्यो॒ न सा॑न॒सिरिन्द्र॑स्य सोम ज॒ठरे॒ सम॑क्षरः ॥
kánikradat kalaśé góbhir ajyase ví avyáyaṃ samayā́ vā́ram arṣasi | marmṛ́jyamāno átyo ná sānásir índrasya soma jaṭháre sám akṣaraḥ ||
Crying out in the cup, you are anointed with the Rays; you flow out through the imperishable strainer at the right moment. Being cleansed, like a swift steed for the winning, O Soma, you pour yourself together into the belly of Indra.
कनि॑क्रदत् । क॒लशे॑ । गोभिः॑ । अ॒ज्य॒से॒ । वि । अ॒व्यय॑म् । स॒मया॑ । वार॑म् । अ॒र्ष॒सि॒ । म॒र्मृ॒ज्यमा॑नः । अत्यः॑ । न । सा॒न॒सिः । इन्द्र॑स्य । सो॒म॒ । ज॒ठरे॑ । सम् । अ॒क्ष॒रः॒ ॥कनिक्रदत् । कलशे । गोभिः । अज्यसे । वि । अव्ययम् । समया । वारम् । अर्षसि । मर्मृज्यमानः । अत्यः । न । सानसिः । इन्द्रस्य । सोम । जठरे । सम् । अक्षरः ॥kanikradat | kalaśe | gobhiḥ | ajyase | vi | avyayam | samayā | vāram | arṣasi | marmṛjyamānaḥ | atyaḥ | na | sānasiḥ | indrasya | soma | jaṭhare | sam | akṣaraḥ