Sukta 9.85
सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यं मधु । जयन्क्षेत्रमभ्यर्षा जयन्नप उरुं नो गातुं कृणु सोम मीढ्वः ॥
स॒हस्र॑णीथः श॒तधा॑रो॒ अद्भु॑त॒ इन्द्रा॒येन्दु॑: पवते॒ काम्यं॒ मधु॑ । जय॒न्क्षेत्र॑म॒भ्य॑र्षा॒ जय॑न्न॒प उ॒रुं नो॑ गा॒तुं कृ॑णु सोम मीढ्वः ॥
sahasranī́thaḥ śatádhāro ádbhuta índrāyénduḥ pavate kā́myaṃ mádhu | jáyan kṣétram abhy àrṣā jáyann ápa urúṃ no gātúṃ kṛṇu soma mī́ḍhvaḥ ||
Of a thousand leadings, of a hundred streams, wondrous—Indu is purified for Indra as the honey of delight that the soul desires. Conquering the field, flow upon it; conquering the waters, make for us a wide path, O Soma, giver of the fruitful boon.
स॒हस्र॑ऽनीथः । श॒तऽधा॑रः । अद्भु॑तः । इन्द्रा॑य । इन्दुः॑ । प॒व॒ते॒ । काम्य॑म् । मधु॑ । जय॑न् । क्षेत्र॑म् । अ॒भि । अ॒र्ष॒ । जय॑न् । अ॒पः । उ॒रुम् । नः॒ । गा॒तुम् । कृ॒णु॒ । सो॒म॒ । मी॒ढ्वः॒ ॥सहस्रनीथः । शतधारः । अद्भुतः । इन्द्राय । इन्दुः । पवते । काम्यम् । मधु । जयन् । क्षेत्रम् । अभि । अर्ष । जयन् । अपः । उरुम् । नः । गातुम् । कृणु । सोम । मीढ्वः ॥sahasra-nīthaḥ | śata-dhāraḥ | adbhutaḥ | indrāya | induḥ | pavate | kāmyam | madhu | jayan | kṣetram | abhi | arṣa | jayan | apa | urum | naḥ | gātum | kṛṇu | soma | mīḍhavaḥ