Sukta 9.85
अस्मान्त्समर्ये पवमान चोदय दक्षो देवानामसि हि प्रियो मदः । जहि शत्रूँरभ्या भन्दनायतः पिबेन्द्र सोममव नो मृधो जहि ॥
अ॒स्मान्त्स॑म॒र्ये प॑वमान चोदय॒ दक्षो॑ दे॒वाना॒मसि॒ हि प्रि॒यो मद॑: । ज॒हि शत्रूँ॑र॒भ्या भ॑न्दनाय॒तः पिबे॑न्द्र॒ सोम॒मव॑ नो॒ मृधो॑ जहि ॥
asmā́n samaryé pavamāna codaya dákṣo devā́nām ási hí priyó mádaḥ | jahí śátrūn abhyā̀ bhandanāyatáḥ píbendra sómam áva no mṛ́dho jahí ||
Drive us forward in the battle, O purifying Soma; for you are the gods’ skill and power, their beloved ecstasy. Strike down the enemies who press upon us for our binding; drink, O Indra, the Soma—protect us, and slay the assaults that oppose our advance.
अस्मान् । स॒ऽम॒र्ये । प॒व॒मा॒न॒ । चो॒द॒य॒ । दक्षः॑ । दे॒वाना॑म् । असि॑ । हि । प्रि॒यः । मदः॑ । ज॒हि । शत्रू॑न् । अ॒भि । आ । भ॒न्द॒ना॒ऽय॒तः । पिब॑ । इ॒न्द्र॒ । सोम॑म् । अव॑ । नः॒ । मृधः॑ । ज॒हि॒ ॥अस्मान् । समर्ये । पवमान । चोदय । दक्षः । देवानाम् । असि । हि । प्रियः । मदः । जहि । शत्रून् । अभि । आ । भन्दनायतः । पिब । इन्द्र । सोमम् । अव । नः । मृधः । जहि ॥asmān | sa-marye | pavamāna | codaya | dakṣaḥ | devānām | asi | hi | priyaḥ | madaḥ | jahi | śatrūn | abhi | ā | bhandanāyataḥ | piba | indra | somam | ava | naḥ | mṛdhaḥ | jahi