Sukta 9.85
इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह । मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः ॥
इन्द्रा॑य सोम॒ सुषु॑त॒: परि॑ स्र॒वापामी॑वा भवतु॒ रक्ष॑सा स॒ह । मा ते॒ रस॑स्य मत्सत द्वया॒विनो॒ द्रवि॑णस्वन्त इ॒ह स॒न्त्विन्द॑वः ॥
índrāya soma suṣútaḥ pári sravā́pāmīvā bhavatu rákṣasā sahá | mā́ te rásasya matsata dvayāvíno dráviṇasvanta ihá sántv índavaḥ ||
For Indra, O Soma, well-pressed, flow all around; let there be a casting out of sickness together with the hostile darkness. Let not the divided and double-minded taste your rasa; may the shining drops be here, full of the true riches of being.
इन्द्रा॑य । सो॒म॒ । सुऽसु॑तः । परि॑ । स्र॒व॒ । अप॑ । अमी॑वा । भ॒व॒तु॒ । रक्ष॑सा । स॒ह । मा । ते॒ । रस॑स्य । म॒त्स॒त॒ । द्व॒या॒विनः॑ । द्रवि॑णस्वन्तः । इ॒ह । स॒न्तु॒ । इन्द॑वः ॥इन्द्राय । सोम । सुसुतः । परि । स्रव । अप । अमीवा । भवतु । रक्षसा । सह । मा । ते । रसस्य । मत्सत । द्वयाविनः । द्रविणस्वन्तः । इह । सन्तु । इन्दवः ॥indrāya | soma | su-sutaḥ | pari | srava | apa | amīvā | bhavatu | rakṣasā | saha | mā | te | rasasya | matsata | dvayāvinaḥ | draviṇasvantaḥ | iha | santu | indavaḥ