Sukta 9.82
यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया वाजमिन्दो । एवा पवस्व सुविताय नव्यसे तव व्रतमन्वापः सचन्ते ॥
यथा॒ पूर्वे॑भ्यः शत॒सा अमृ॑ध्रः सहस्र॒साः प॒र्यया॒ वाज॑मिन्दो । ए॒वा प॑वस्व सुवि॒ताय॒ नव्य॑से॒ तव॑ व्र॒तमन्वाप॑: सचन्ते ॥
yáthā pū́rvebhyaḥ śatásā́ amṛ́dhraḥ sahasrasā́ḥ pár yayā vā́jam indo | evā́ pavasva suvitā́ya návyase táva vratám anv ā́paḥ sacante ||
As once you went, O Indu, winning vāja a hundredfold, a thousandfold, without failure—so now purify yourself for a new and wider felicity. The Waters follow your law of working; they consent to your way and support your ordained movement.
यथा॑ । पूर्वे॑भ्यः । श॒त॒ऽसाः । अमृ॑ध्रः । स॒ह॒स्र॒ऽसाः । प॒रि॒ऽअयाः॑ । वाज॑म् । इ॒न्दो॒ इति॑ । ए॒व । प॒व॒स्व॒ । सु॒वि॒ताय॑ । नव्य॑से । तव॑ । व्र॒तम् । अनु॑ । आपः॑ सचन्ते ॥यथा । पूर्वेभ्यः । शतसाः । अमृध्रः । सहस्रसाः । परिअयाः । वाजम् । इन्दो इति । एव । पवस्व । सुविताय । नव्यसे । तव । व्रतम् । अनु । आपः सचन्ते ॥yathā | pūrvebhyaḥ | śata-sāḥ | amṛdhraḥ | sahasra-sāḥ | pari-ayāḥ | vājam | indo iti | eva | pavasva | suvitāya | navyase | tava | vratam | anu | āpaḥ | sacante